________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
ज्ञानमंजरी टीका,
अखंडानंदरूपे, चित्स्वरूपे, अवर्णागंधारसास्पर्शे, आत्मनि श्रद्धानज्ञानरमणतया स्थिरो भव ॥ २ ॥ अस्थिरे हृदये चित्रा, वाग्नेत्राऽऽकारगोपना। पुंश्चल्या इव कल्याण-कारिणी ग प्रकीर्तिता ॥३॥
व्या०--'अस्थिरे इति' हृदये आस्थिरे सति परभावाभिलाषिणि चित्ते सति, चित्रा अनेकाकारा वाङ्नेत्राचाकारगोपना द्रव्यक्रियारूपा, पुंश्चली इव असती स्त्री इव कल्याणकारिणी न प्रकीर्तिता हितकारिणी न मता, जैनानां द्रव्यक्रिया भावधर्मयुता भावाभिलाषिणी एव प्रशस्या, भावधर्मरहिता तुमार्जारसंयमतुल्या, तत्त्वार्थे द्रव्यक्रिया केषांचित् परंपरया धर्महेतुतया जाता, सा तु-देवादिसुखेहलोकयशोऽभिलापरहितानां एव, न तु लोकसंज्ञारूढानां, अतः तत्त्वस्वरूपामिमुखीमय मन आत्मधर्मैकत्वं विधाय चित्तस्थिरतापूर्वकं स्थैर्य करणीयम् । इति गाथार्थः ॥३॥ अन्तर्गतं महाशल्य-मस्थैर्य यदि नोद्धृतम् । क्रियोषधस्य को दोष-स्तदा गुणमयच्छतः॥४॥
___ व्या०-'अन्तर्गतमिति' अंतर्गतं अभ्यंतरं महाशल्यं महत् शल्यरूपं परभावानुयायि, परभावानुगतवेतनावीर्यपरिणतिरूपं, अस्थैर्य आस्थिरत्वं, अतश्चापल्यं आत्मपरिणतीनां स्वस्वकार्याकरणे परभावोन्मुखप्रवर्त्तनरूपं अस्थैर्य, यदि न उद्धृतं न वारितं तदा क्रियौषधस्य को दोषः ? न कोपीत्यर्थः, कथंभूतस्य क्रियौषधस्य ? गुणं स्वात्मस्वभावाविर्भावरूपं अयच्छतः अददतः, क्रिया हि वृत्तिरूपा, भावपरिणतिस्तु आत्मगुणशुद्धिरूपा, अन्तः
२२
For Private And Personal Use Only