________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
वत्स! किं चन्चलस्वान्तो,भ्रान्त्वाभ्रान्त्वा विषीदसि? निधिं स्वसन्निधावेव, स्थिरता दयिष्यति ॥१॥
व्या०-'वत्सेति' हे वत्स ! त्वं चंचलस्वांतः चपलां तःकरणः सन् इत इतो भ्रांत्वा, एकं त्यजन् अन्यं गृह 'आतिदीनः कथं विषीदसि विषादवान् भवसि ? अप्राप्त्या दीनः, प्राप्त्याऽतृप्तः, अत एव परभावे विषाद एव सुखबुझ्या गृहीतस्य स्वयं सुखरूपाभावात् प्राप्तौ अपि न सुखं, अतस्तत्र प्रवृतिर्विषादमूला एव, रे वत्स ! स्वसंनिधौ एव स्वसमीपे एव आत्मनि एव, निधिं स्वगुणसंपभाजनं, तव स्थिरता भेदरत्नत्रयाभेदरत्नत्रयैकत्वरूपा दर्शयिष्यति उपयोगगोचरं करिष्यति, अतः अनादिविषयास्वादचलतां त्यक्त्वा शुद्ध ज्ञानाद्यनंतगुणे शुद्धात्मनि स्थिरत्वं कुरु ॥ १ ॥ ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः । आम्लद्रव्यादिवास्थैर्या-दिति मत्वा स्थिरो भव ॥२॥
व्या०-'ज्ञानदुग्धमिति' लोभविक्षोभकूर्चकैः अस्थैर्यात् ज्ञानदुग्धं विनश्येत, लोभः लोलुपतापरिणामः, इच्छा मूर्छा गृध्नुताऽऽकांक्षा इत्यादि लोभपर्यायाः, परभावामिलाषरूपा अशुइपरिणामाः, त एव कूर्चकाः, तैर्ज्ञानं तत्त्वावबोधत्वैकत्वरूपं, दुग्धमिव दुग्धं, विनश्येत क्षयं लभेत, लोभपरिणाम आत्मस्वरूपानुभवविनाशहेतुः, कस्मादिव ? आम्लद्रव्यादिव, यथा आम्लद्रव्ययोगे पयो विनश्यति, तथा लोभपरिणत्या आत्मस्वरूपसुखं विनश्येत् इति । लोभपरिणामः परभावग्रहणेच्छापरिणामः, आत्मगुणानुभवविध्वंसहेतुः, इति ज्ञात्वा आत्मस्वरूपे 27
For Private And Personal Use Only