________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
ज्ञानमंजरी टीका.
श्यते, तत्र धर्मास्तिकायादीनां त्रयाणां स्थिरता अक्रियत्वात् , पुद्गलानां स्थिरता स्कंधादिनिबझा, सा तु न साधनहेतुः, अत्र नांगीकृता, या तु वस्तुवृत्त्या स्थिरस्य, परोपाधितः चलीभूतस्य, सम्यग्दर्शनादिगुणावाप्तौ परभावादिष्वगमनरूपा आत्मनः स्थिरता प्रतन्यते, तत्र नामस्थापना सुगमा, द्रव्यतः योगचेष्टारोधरूपा, द्रव्ये स्थिरता मम्मणवत् , द्रव्येण स्थिरता रोगादिसंभवा, द्रव्यरूपा स्थिरता द्रव्यस्थिरता, आगमतःनोआगमतः, आगमतः स्थिरतापदार्थज्ञस्य अनुपयुक्तस्य, नो आगमतः स्वरूपोपयोगशून्यस्य साध्यविकलस्य, प्राणायामादिषु पायोत्सर्गादिर्वा द्रव्यस्थिरता । भावतो द्विविधा अशुद्धा रागद्वेषमनोज्ञविषयेषु तन्मयत्वेन एकता, शुद्धा च सम्यग्दर्शनज्ञानचारित्रादिस्वरूपे तन्मयत्वरूपा, धर्मव्यानशुक्लध्यानादिषु अचलताभावस्थिरता, शुद्धसाध्यशून्या योगादीनां स्थिरता सा दुर्नयरूपा, या तु साध्यवार्त्तया साध्यनिष्पादनपरिणतिविकला नयाभासरूपा, या तु-साध्यामिलापसाध्योद्यमपरिणत्या कारणभूता योगादीनां द्रव्याश्रवात्यागरूपा स्थिरता सा आद्यनयचतुष्टयरूपा, या तुसम्यग्दर्शनज्ञानचारित्रण स्वरूपसाधनसाध्यनिष्पादनाम्यासवती स्थिरता सा शब्दनयस्थिरता, या तु-धर्मशुक्लध्यानगतस्वरूपाप्रच्युतिपरिणतिरूपा सममिरूढनयस्थिरता, या तु क्षायिकदर्शनज्ञानचारित्रवीर्यसुखादिभ्यः अप्रच्युतिरूपा सा एवंभूतस्थिरता, विभावेऽपि सर्वनयरूपा स्थिरता तत्त्वविकल्पानामिष्यते, तथापिअत्र परमानंदसंदोहभोगरूपसिद्धत्वसाधनरूपा स्वभावस्थिरतास्तस्या एवाऽवसरस्ततः सा एव व्याख्यायते । अनाद्यशुद्धतामग्नः स्वरूपसुखाप्राप्तौ इंद्रियसुखेच्छया चंचलोऽयं जीवः तस्य करुपाया गुरुवक्ति ।
For Private And Personal Use Only