________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
ज्ञानमंजरी टीका.
सृतं अतः सङ्कल्पविकल्परूपचलपरिणतिमपहाय द्रव्यभावप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरूपैरास्रवैः सृतं, यो हि आत्मसमाधिरतः स्वस्वभावस्थिरः तस्य आस्रवाः कुत इति ? यत आत्मनः स्वधर्मकर्तृत्वयथार्थभासनस्वरूपग्राहकत्वस्वगुणभोक्तृत्वस्वस्वभावरक्षकत्वपरिणतस्य न आस्रवाः, एतेषां स्वभावानां परभावपरिणतानां आस्रवाः स्वरूपभ्रांतिरेव, स्वपरिणतीः परकर्तृत्वेन परिणमयति, यदा तु अस्य स्वरूपावबोधः स्वकार्यकारणनिर्धारो जातस्तदा स्वपरिणतीः स्वकार्यकारणे एव व्यापारयति न परकर्तृत्वे, कारकचक्रमपि स्वरूपमूढे च परकर्तृत्वादिव्यापारेण अशुद्धीकृतं यदा अनेन स्वपरविवेकेन अहं अहं, परः परः, नाऽहं परकर्ता भोक्ता एवं लब्धविवेकः स्वकारकचक्रं स्वकार्यकरणे व्यापारयति; आत्मा आत्मानं, आत्मा आत्मने, आत्मन आत्मनि प्रवर्त्तयति इति स्वरूपं एवं स्वरूपपरिणतानां आस्रवा न भवंति ॥ ६ ॥ उदीरयिष्यसि स्वान्ता-दस्थैर्यपवनं यदि । समाधिधर्ममेघस्य, घटां विघटयिष्यसि ॥७॥
व्या०--'उदीरयिष्यसि इति' यदि 'स्वान्तात्' अन्तःकरणात् अस्थैर्यपवनं त्वं उदीरयिष्यसि अस्थिरतामारुतं यदा प्रवतयिष्यसि तदा समाधेः, स्वरूपार्थविश्रान्तिरूपधर्ममेघस्य घटां 'विघटयिष्यसि’ दूरीकरिष्यसि इति, अस्थिरस्य समाधिध्वंसो भवति अत आत्मधर्मविषये स्थिरता करणीया ॥ ७ ॥ चारित्रं स्थिरतारूप-मेतत्सिद्धेष्वपीष्यते ।। यतन्तां यतयोऽवश्य-मस्या एव प्रसिद्धये ॥८॥ . व्या०--'चारित्रमितिः अतः कारणात् सिद्धेष्वपि सकलकर्म
२४
For Private And Personal Use Only