________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२०५
*सायासायं दुक्खं, तविरहम्मि य सुहं जओ तेणं । देहें दिए दुक्खं, सुक्खं देहिंदियाभावे ॥ ३ ॥
उक्तं च-
यं वाक्यमात्रमवसादयति प्रतिष्ठा,
क्लिश्नाति लब्धपरिपालनदृष्टिरेव ।
नातिश्रमापगमनाय यथा श्रमाय, राज्यं स्वहस्तधृत दंडमिवातपत्रम् ॥ १ ॥ इति ॥ तस्मात् संसारः सर्वदुःखरूप एव । स्वाभाविकानंद एव मुखं, यावत् इंद्रियसुखे सुखबुद्धिः तावत् सम्यग्दर्शनज्ञाने न मग्नः, इति तत्वार्थवृत्तौ, अतः अध्यात्मसुखं पुद्गलाऽऽश्लेषजसुखेन नोपमीयते ॥ ६ ॥ रामशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नता ? ॥ ७ ॥
व्या०--- 'शमशैत्यपुष इति, शम उपशमः रागद्वेषाभावः, तवास्वादकत्वं आत्मनि निर्धार्य इष्टानिष्टे वस्तुनि रागादीनां शांतिः, नहि रागादयो वस्तुपरिणामाः किन्तु विभावजा अशुद्धा * यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकार विभक्तं ततः पुण्यफलमिति दुःखमिति ॥ १ ॥ विषयसुखं दुःखमेव दुःखप्रतीकार तश्चिकित्सेव । तत् सुखमुपचाराद् नोपचारो विना तथ्यम् || २ || सातासातं दुःखं तद्विरहे च सुखं यतस्तेन । देहेन्द्रियेषु दुःखं सौख्यं देहेन्द्रियाभावे ॥ ३ ॥
१७.
For Private And Personal Use Only