________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
ज्ञानमंजरी टीका.
प्रांतिपरिणतिः, नहि पुद्गलादीनां शुभाशुभपरिणतिः कस्यापि जीवस्य निमित्ता, किन्तु पूर्णगलनपारिणामिकत्वेन । अथ वर्णादिकर्मविपाकाद्वा तत्र रागद्वेषकृता तु प्रांतिरेव उक्तं चकणगो लोहोन भणइ, रागो दोसो कुणंतु मण्झनुमं। नियतत्तविलुत्ताणं, एस अणाईअ परिणामो॥१॥
स्वरूपस्य स्वायत्तत्वात् स्वभोग्यत्वात् परवस्तुसंयोगवियोगाभ्यामिष्टानिष्टतोपाधिः । एवं शमस्य शैत्यं शीतलत्वं अततत्वं, तस्य 'पुषः' पोषकस्य यस्य पुरुषस्य शमशैत्यपुषः विषुषः बिंदुमावस्यापि महाकथा महावार्ता, शमशैत्यबिंदुरपि दुर्लभः यस्य ज्ञानपीयूषे तत्त्वज्ञानामृते सर्वांगमग्नता तब तस्मिन् स्थाने किं स्तुमः किं वर्णयामः ? तस्य वर्णनं कर्तुं असमर्था वयमिति । यो हि स्वरूपज्ञानानुभवः स अतिप्रशस्यः । उक्तं च"लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो । इक्को नवरिन लब्भइ,जिणिन्दवरदसिओ धम्मो॥१॥ धम्मो पवित्तिरूवो,लब्भइ कइयाविनिरयदुक्खभया। जो नियवत्थुसहावो, सो धम्मो दुल्लहो लोए ॥२॥ निअवत्थुधम्मसवणं, दुलहं वुत्तं जिणिंदिआण सुहं । तप्फासणमेगत्तं, हुति केसिं च धीराणं ॥३॥
अतः वस्तुस्वरूपधर्मस्पर्शनेन परमशीतीभूतानां परमपूज्यत्वमेव ॥ ७ ॥ यस्य दृष्टिः कृपावृष्टिः, गिरः शमसुधाकिरः । तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने ॥ ८॥
For Private And Personal Use Only