________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
ज्ञानमंजरी टीका.
संयमभावोल्लंघनेन तत्प्रमाणसंयमस्थानोल्लंघी मुनिर्ग्राह्य इति । अत्र परंपरासंप्रदायः, जघन्यतः उत्कृष्टं यावत् असंख्येयलोकाकाशपमागेषु संयमस्थानेषु क्रमाक्रमवर्तिनिग्रेथेषु मासतः द्वादशमाससंयमप्रमाणसंयमस्थानोल्लंघनोपरितने वर्तमानः साधुरीहर देवतातुल्यं सुखं अतिक्रम्य वर्तते इति ज्ञेयम् । उक्तं च-- "मासादिपर्यायवृद्ध्या, द्वादशभिः परं तेजः। प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ॥१॥"
धर्मविदस्तेजस्विनःसुखलाभक्षणं वृत्तौ । इत्येवं आत्मसुखवृद्धिः आत्मज्ञानमनस्य भवति ॥५॥ ज्ञानमग्नस्य यच्छम, तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषै-नापि तच्चन्दनद्रवैः ॥६॥ ___ व्या०-ज्ञानमग्नस्यति 'ज्ञानमग्नस्य, आत्मसुखोपलब्धियुक्तस्य 'यत् शर्म, सुखं, स्पर्शज्ञानानुभवानंदं तत् वक्तुं नैव शक्यते, अतींद्रियत्वात् वागगोचरत्वात् , तद् अध्यात्मसुखं प्रिया मनोज्ञेष्टवनिता तस्या 'आश्लेषैः, आलिंगनैः, तथा चंदनद्रवैः चंदनविलेपन!पमीयते । यतः स्रक्चंदनादिजं सुखं वस्तुतः न सुखं, आत्मसुखप्रष्टैः सुखबुद्धया आरोपितं, लोके पुद्गलसंयोगजं आरोपसुखं जात्या दुःखमेव । उक्तं च विशेषावश्यके-- "जत्तो चिअपञ्चक्ख, सोम्म! सुहं नस्थि दुक्खमेवेदं । तप्पडियारविभत्तं, तो पुण्णफलं ति दुकं ति॥१॥ विसयसुहं दुकं चिय दुक्खं पडियारओतिगिच्छ व । तं सुहमुवयाराओ न उवयारो विणा तच्चं ॥२॥
For Private And Personal Use Only