________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
ज्ञानमंजरी टीका.
तिं प्राप्तः, आत्मानंतानंदसंपन्नमयं ज्ञात्वा, परमात्मसत्तास्वरूपे मग्नो भवति, स मग्नः अभिधीयत इति ॥१॥
य आत्मानुभवमग्नः स कीहम् भवति तदाहयस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसज्जार-स्तस्य हालाहलोपमः ॥२॥
यस्येति । यस्य जीवस्य अनादिविभावविरतस्य ज्ञानसुधासिंधौ परब्रह्मणि ज्ञानामृतसमुद्रूपे परमात्मसमाधौ मनस्य तस्य जीवस्य विषयांतरे वर्णगंधादौ संचारः प्रवर्तनं हालाहलोपमः महाविषभक्षणतुल्यः । यो हि अमृतस्वादमग्नः स विषमषिषं भोक्तुं कथं प्रवर्तते ? मालतीभोगमलो मधुकरः करीरादिषु न वसति, एवं शुद्धनिःसंगनिरामयनिद्वस्वीयात्मज्योतिर्मना अनंतजीवेष्टेषु स्वयं अनंतवारभुक्तमुक्तेषु, वस्तुतः अभोग्येषु स्वगुणावरणहेतु मूतेषु विषयेषु, तस्य मनो न संचरति न प्रतते, इति तत्त्वम्॥२॥
पुनस्तदेवं द्योतयति-- स्वभावसुखमनस्य, जमासस्वावलोकिनः। कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ॥३॥
स्वभावसुख० इति । 'स्वभावं' सहजं सुखं सहजात्यंतिकैकांतानंदं तत्र ‘मनस्य' तन्मयस्य, 'जगलू लोकः तस्य तत्त्वं तफर्म, यथार्थतया विलोकिनः दर्शनशीलस्य पुरुषस्य, अन्यभावानां परभावानां रागादिविभावानां ज्ञानावरणादिकर्मणां बाह्यस्कंधादाननिक्षेपानां कर्तृत्वं न, किंतु ज्ञायकस्वभावत्वात् साक्षित्वमेव, तत्र कर्तृत्वं एकाधिपत्ये क्रियाकारित्वं, तत्, जीवे जीव
१०
For Private And Personal Use Only