________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
१९७
शुद्धश्चेति । तत्र अशुद्धः क्रोधादिमग्नः विभावभावितात्मा, शुद्धः द्विविधः, साधकः, सिद्धश्च तत्र साधकः वस्तुस्वरूपाभिमुखः आद्यनयचतुष्टये तु निरनुष्ठानदग्धादिदोषवर्जितविव्युपेतद्रव्यसाधनप्रवृत्ति परिणतवस्तुस्वरूपसाधरुचिमतोः भवति । शब्दादिन - यमग्नस्तु सम्यग्दर्शनज्ञानचारित्राद्यात्मसमाधिमग्नः संपूर्णवस्तुस्वरूपे निरावरणे मग्नः निष्पन्नः । अत्र हि गुणस्थानादिविशुद्धस्वस्वरूपानंदमग्नत्वमीक्ष्यते तत्र मग्नलक्षणं गदन्नाह - प्रत्याहृत्येन्द्रिय इति । इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपाणां, यो व्यूहः समूहस्तं प्रत्याहृत्य प्रत्याहारं कृत्वा, विषयसंसारतो निवार्य, "प्रत्याहार स्त्विद्रियाणां विषयेभ्यः समाहृतिः" इति वचनात् । निजं स्वीयं मनः, चेतना वीर्यैकत्वविकल्परूपं समाधाय समाधौ स्थाप्य विषयनिरोधं आत्मद्रव्यैकाग्रतारूपं कृत्वा, “समाधिस्तु तदेवार्थमात्राभासन पूर्वकं" आत्मस्वरूपभासनैकत्वरूप समाधिः, तत्र मनः कृत्वा चिन्मात्रे ज्ञानमात्रे आत्मनि, मुख्यतः दर्शनज्ञानमय एव आत्मा, "उवउत्तो नाणदंसणगुणेहिं” इति वाक्यात् । ज्ञानस्वरूपे स्वद्रव्यं विश्रान्तिं दधत् मग्न इति अभिधीयते कथ्यते, इत्यनेन अनादितः अयं जीवः पुद्गलस्कंधजवर्णगंधरसस्पर्शरसादिषु मनोज्ञेषु स्वजनादिषु च भवन् विकल्पकोटिकोटिं प्राप्त इष्टान् विषयान् इच्छन्, अनिष्टान् विषयान् अनिच्छन् वातोद्भूतशुष्कपलाशवद् भ्रमति । कदाचित् स्वपरविवेकरूपं भेदज्ञानं प्राप्य अनंतज्ञानदर्शनानंदमयं स्वीयं भवं स्वत्वतया निर्धार्य इदं विषयसंगादिकं न मम, नाहं अस्य भोक्ता उपाधिरेव एष, नहि मम कर्तृत्वं भोक्तृत्वं ग्राहकत्वं च परवस्तूनां मया हि स्वरूपभ्रष्टेनेदं विहितं, सांप्रतं जिनागमाखनेन जातस्वपर विवेकेन तेषु रमणास्वादनं न युक्तम् । इति विचार्य स्वरूपानं तस्वभावगुणपर्यायस्याद्वादानंतात्मनि विश्रां
For Private And Personal Use Only