________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिणः। स्वस्खत्वसुखपूर्णस्य, न्यूनता न हरेरपि ॥७॥ परस्वत्वेति । परे परवस्तुनि संगांगिभावजविभावपरिणतौ स्वस्य भावः-स्वत्वं, परे स्वत्वं-परस्वत्वं तेन कृत उन्माथ उन्मादो व्याकुलत्वं येषां ते 'परस्वत्वकृतोन्माथाः' एवंभूता 'भूनाथाः' पृथ्वीशाः अपि, न्यूनतेक्षिणः न्यूनतादर्शनशीलाः, यतः परसंपद्रक्तानां चिंतामण्यनंतकोटिप्राप्तौ अपि न तृप्तिः, तृष्णाया अनंतगुणत्वात् सदैवापूर्णत्वात् न्यूनतामेव पश्यति । तृष्णाया विभावत्वात्, परित्यागे सुखम् । स्वशब्देन आत्मा तत्रैव स्वत्वं 'स्वस्वत्वं तदुप्तनसुखं आत्मस्वभावनिर्धारभासनरमणानुभवरूपं 'सुखं तेन पूर्णस्य मुनेः, हरेरपि इंद्रादपि न न्यूनता यत; इंद्रादीनां शुभाशुभाध्यवसायनिबद्धपुण्यविपाकभोगिनां आत्मगुणानुभावशून्यानां दीनत्वमेव विलोक्यते तत्त्वरसिकैः । स्वरूपसुखलेशोऽपि जीवनं परमामृतं पुण्योदयोद्भवसुखकोटिरपि स्वगुणावरणत्वेन महद् दुःखं अहह! बंधसत्तातोऽपि उदयकालः दारुणः, येनाऽऽत्मनः गुणावरणता । अतः स्वरूपसुखे रुचिः कार्या ॥४॥ कृष्णे पक्षे परिक्षीणे, शुक्त च समुदश्चति । द्योतते सकलाध्यक्षा पूर्णानन्दविधोः कला ॥८॥ ___ कृष्ण पक्षे इति । कृष्णे पक्षे परिक्षीणे क्षयं प्राप्ते शुक्के
से समुदञ्चति उदयं पाप्तति सति सकलाध्यक्षा सकलजन। यक्षा विधोः चंद्रस्य कला द्योतते इति तोकावृत्तिः । एवं कृष्णे पक्षे अर्थपुद्गलाविकसंसाररूपे क्षीणे सति, शुक्लपक्षे अर्द्धपुद्गलाभ्यंतरसंसाररूपे प्रवर्तमाने सति, पूर्णानंद आत्मा, स एवं
For Private And Personal Use Only