________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
ज्ञानमंजरी टीका.
१९३.
दर्शनज्ञानचारित्रभेदरत्नत्रयीरूपा पूर्णता स्वाभाविकी अपि अभिनवाभ्यासतः सविकल्पा क्षयमाणत्वात् अभेदरत्नत्रयीपरिणतानां स्वाभाविकी पूर्णता निर्विकल्पा भवति, तत्साध्यत्वेन तवसाधनरसिकतया भवितव्यमिति । उपदेशः ' मनीषिणां पण्डितानां शुद्धश्रद्धानभासनपूर्वकत्वरमणानुगवीर्यप्रवृत्तिवमतां पूर्णानंदसुधा तया स्निग्धा दृष्टिर्भवति । पूर्णः अन्यूनः य आनंदः पूर्णानंदः पूर्णानंद एव सुधा पूर्णानंदसुधा तया स्निग्धा दृष्टिः 'एषा' भवति इति संबंधः । स्वस्वरूपस्वाभाविकपूर्णात्मीयात्यंतैकांतिकनिर्द्वद्वानंदस्निग्धा दृष्टिः तवज्ञानवतां भवति । आत्मज्ञानिनः स्वरूपानंदपूर्णतां एव पूर्णत्वेन मन्यंते इति न तत्र पौनली पूर्णतासंकल्पः उपाधित्वेन निर्धारात् इति गाथार्थः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते । पूर्णानन्दस्वभावोऽयं, जगदद्भुतदायकः ॥ ६ ॥
अपूर्णः इति । यः त्यागपरिणत्या सकलपुद्गलपरित्यागरुचिः पुद्गलैः 'अपूर्ण' साधकात्मगुणैः ' पूर्णतां प्रति प्राप्नोति । तु पुनः 'पूर्यमाण:' पुद्गलैः 'हीयते' पूर्णानंदेन पुद्गलैः पूर्यमाणस्य आत्मानंदे हीयते एव । ' अयं' ज्ञानगोचरीभूतः 'पूर्णानंदस्वभावः 'जगदद्भुतदायकः' अस्ति इति । पूर्णानंदस्वभावस्य इयं अद्भुतता, परसवत्यागे वृद्धिः, परभावपूरणे हानिः । अत्र भावना - आत्मनः सकलस्वरूपाविर्भावानुभावोत्पन्नानंदः, जगति लोके अनादिप्रवृत्तिप्रवृत्ते पुद्गलानंदभोक्तरि विस्मयरूपः । शुद्धतच्चपूर्णानां तु स्वरूपत्वात् न विस्मयः । अत एव पूर्णानंदसाधनभूते विशुद्धसम्यग्रत्नत्रयसाधने यत्नो विधेय इति गाथार्थः ॥ ६॥
25
५
For Private And Personal Use Only