________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
भिवति स्वीयसहजाप्रयासानन्दस्य पूर्णतव भवति । कथम्भूता ज्ञानदृष्टिः ? ' तृष्णाकृष्णाहिजांगुली, ' तृष्णा पुद्गलभोगपिपासा, सा एव कृष्णाहिः कृष्णसर्पः । तदमने जांगुली गारुडमंत्रविशेषः इति । अत्र भावना-संसारचक्रक्रोडगतस्य जंतोः स्वीयासंख्ये-यप्रदेशव्याप्तज्ञानादिगुणास्वादच्युतस्य पौद्गलिकभोगपिपासासर्पदष्टस्य स्वपरविवेकरूपज्ञानदृष्टिजांगुलीस्मरणेन परतृष्णानिर्विषस्य शुद्धस्वरूपैकत्वतवध्यानमग्नस्य निष्पन्नक्षायिकभावानंदस्य पूर्णस्य नास्ति दीनता, यतो हि अविरतसम्यग्दृष्टिः तत्त्वश्रद्धायुक्त आत्मानं आत्मतया परं च परतया, निर्धार्य, विचरन् तृष्णातुरो न भवति तर्हि किं पूर्णानन्दमग्नानां ? इति गाथार्थः ॥ ४ ॥ पूर्यन्ते येन कृपणा-स्तदुपेक्षैव पूर्णता । पूर्णानन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् ॥५॥
पूर्यत, इति 'येन परसंयोगेन धनधान्यादिना 'कृपणाः' लोभममाः आत्मधर्मसंपद्विकलाः परास्वादनरसिकत्वेनात्मानं धन्यं मन्यमानाः, बस्तुधर्मे धीरताशून्याः 'पूर्यते' प्रचुरा भवंति सा 'पूर्णता' उपाधिजा उपेक्षा एव अनंगीकारयोग्या एव। अथवा तदुपेक्षा एक नहि एषा पूर्णता किं तु पूर्णतात्वेन उपेक्षते आरोप्यते इत्यर्थः। यथाहि-घटः जळेनापूर्णः। बहिःस्निग्धजमलेनपूर्णः केनचिदुच्यते मलपूर्णोऽयं घटः, एषा मलजा पूर्णता, सा किं पूर्णकुंभत्वावस्थां लभते ? नैवेति। एवं आत्मानंतज्ञानानंदादिस्वरूपापूर्णस्य कोपाधिजा पूर्णता, ‘सा किं तत्वभोगपूर्णैः पूर्णत्वेनैव अङ्गीक्रियते ? नैवेति । एवं ज्ञात्वा 'उपेक्षा एव । अत एव अनादिस्वरूपभ्रष्टानां परोपाधिजा पूर्णता तन्मयत्वेन अभेदपरिणत्या प्रवर्त्तमानत्वात् निर्विकल्पायां तु सम्यग्
For Private And Personal Use Only