________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
स्वभावोत्था दर्शनज्ञानचारित्राद्यात्मका सकलात्मस्वभावाविभावरूपा शोभा सा एव शोभा जात्यरत्नविभानिभा, जात्यरत्नस्य विभा कांतिः तत्तुल्या, या हि-पुद्गलादिपरोपाधिजन्या सा तु स्फटिकोपलपुटिकावर्णिकातुल्या, या तु-स्वभावोत्पन्ना सा तु जात्यमाणिक्यकांतितुल्या, अतः स्वीयशुसहजपूर्णतारुचिभासनरमणतया भवितव्यमिति गाथार्थः ॥२॥ अवास्तवी विकल्पैः स्या-त्पूर्णताब्धेरिवोर्मिभिः । पूर्णानन्दस्तु भगवान् , स्तिमितोदधिसन्निभः॥३॥
अवास्तवी-इति । वस्तु पदार्थः, तस्य इयं वास्तवी, न वास्तवी 'अवास्तवी' परसंयोगोद्भवा, रागद्वेषमोहादिजैः विकल्पैः पूर्णता, अब्धेः समुद्रस्य ऊर्मिमिः इव स्यात् । यथा-ऊर्मिमिः समुद्रः अग्राह्यः, अनवगाह्यश्च भवति । तथाऽऽत्मापि रागद्वेषोमिभिः अग्रायः, अनवगाह्यश्च भवति । 'तु' पुनः-'पूर्णानंदः' आत्मीयानंतसंपदास्वादरूपो, निष्पन्नपरमात्मावस्थारूपः । भगवान् परमैश्वर्यरूपः स्तिमितोदधिः स्थिरोदधिः तेन संनिभः सदृश इति । अतः चलत्वं विहाय अचलतया भवितव्यं, आत्मा आत्मस्वभावस्थः निर्विकल्पो भवति तत्साधनाय यतितव्यमित्यर्थः ॥३॥ जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णाकृष्णाहिजाङ्गुली। पूर्णानन्दस्य तरिक स्याद् , दैन्यवृश्चिकवेदना? ॥४॥
जागर्ति-इति । चेत् यदि 'ज्ञानदृष्टिः' तत्त्वज्ञानरूपा दृष्टिः चक्षुः जागर्ति, विकाशरूपा प्रवर्तते, 'तस्य पूर्णानन्दस्य' स्वरूपाविर्भावचिदानन्दयुक्तस्य भगवतः 'दैन्यं दीनता' तद्रूपा वृश्चिकवेदना किं स्यात् ? अपितु-न स्यात् दैन्यं नूनं तस्य न
For Private And Personal Use Only