________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९०
ज्ञानमंजरी टीका.
"
स्मरणरूपमंगलात्मकं च आद्यं पद्यं वक्ति ग्रंथकारः, ऐंद्रश्री इति । तेन मुनिना पाठकेन सूरिणा यथार्थक्षयोपशमोपयोगवता तथा श्रीमदर्हता सिद्धपरमात्मना क्षायिकोपयोगवता न्यायसरस्वतीविरुदधरेण श्रीमद्यशोविजयोपाध्यायेन 'पूर्ण सकलं जगत् अशुद्धपरसंयोगोत्पन्ननवनवपर्यायगमनशीलत्वात् 'लीलालग्नमिव कल्पनाकल्पितकीडामुग्धमिव अवेक्ष्यते दृश्यते इति संटकः । इत्यनेन शुद्धमूर्त्तात्मानंदाऽनुभवलग्नाः परानुभवमग्नान् मूढत्वेनैव पश्यंति, नच परवस्तुनि किञ्चिद् भोग्यत्वमस्ति, वस्तुवृत्त्या स्वीयगुणपर्यायानुभव एव युक्त इति । अतः परस्वरूपमग्ना मुग्धा इति तात्पर्य, तेन कथंभूतेन ? ऐंद्रश्रीसुखम
"
न इन्द्रो जीवः तस्य इयं ऐंद्री च या श्रीश्च ऐंद्रश्रीः आत्मगुणलक्ष्मीः तस्याः सुखं आनंदः तत्र मग्नेन एकत्वा (व) स्थाssपन्नेन, पुनः सत् शुभं शाश्वतं वा चित् ज्ञानं तस्य य आनंदः तत्र पूर्णेन ज्ञानानंदमृतेन मुनिना जगत् मिथ्यात्वासंयममनं मूढं विलोक्यते । पूर्णा अपूर्ण जगत् भ्रांतं जानंति । इत्यतः पूर्णानंदात्मस्मरणेन स्वीयः पूर्णानंद: साध्य इति ॥ १ ॥ अथ पूर्णत्वं वस्तुनो निरूपयति ।
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णता या परोपाधेः, सा याचितकमण्डनम् । यातु स्वाभाविकी सैव, जात्यरत्नविभानिभा ॥ २ ॥
पूर्णता - इति । पूर्णता परोपाधेः पुद्गलसंयोगजन्यतनुधनस्वजनयशःख्यात्यादिरूपायाः या पूर्णता चक्रिशक्रादीनामिव सा. याचितकमंडनं मार्गिताभरणशोभा तेन इभ्यत्वं यद् जगज्जीवैरनंतशो भुक्त्वोष्टिं आत्मनोऽशुद्धताहेतुः तद्योगे रा पानुभवभ्रष्टानां शोभा न तवरसिकानां तु पुनः या स्वाभाविकी
For Private And Personal Use Only