________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्हम् ।
न्यायविशारद - न्यायाचार्य - श्रीमद् - यशोविजयोपाध्यायविरचितं
श्री ज्ञानसारसूत्रम् ।
(श्रीमद्देवचन्द्रयतिपतिकृत- ज्ञानमञ्जरी-वृत्तियुक्तम् ।) अथ पूर्णाष्टकम् ॥ १ ॥
श्रीपार्श्वशं जिनं नत्वा, शुद्धं स्याद्वादसंयुतम् । आत्मानंदविशुद्धयर्थ, ज्ञानसारं प्रतन्यते ॥ १ ॥ परोपकारप्रवणा मुनीशाः, पूर्व बभूवुर्गुणरोहणेशाः । तेषां सुवाक्यामृतपानपीनः, करोमि टीकां स्वहितां सुबोधाम ॥२॥ नास्तीह लोके ह्युपकारयोग्यो, मत्तोऽपि संसारविधातधीरः । तथाSSत्मबोधाय तनोमि टीकां, भाष्यादिशास्त्रार्थकृतावलम्बः ॥३॥ ऐन्द्रश्रीसुखमग्न, लीलालग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्ण जगदवेक्ष्यते ॥ १ ॥
इह शिष्टाचारपरिपालनाय, मंगलादि वाच्यम् - तच्च, शुद्धात्मस्वरूपनिरूपणपटिष्ठत्वात् सर्व एव ग्रन्थो मंगलं, तथापि-ग्रंथाव्युच्छित्तिसुखावबोधाय शिष्यमतिविकाशार्थं च पंचमंगलबीजमूर्त श्रीमन्मुनिराजादिपंचपदस्मरणरूपं मंगलभाविष्कृतम् । गुणस्तवनध्वनि-अंजलीकरणयोगाह्लादादिकारणोत्पन्नात्मीयगुणे । अर्हदादिबहुमानैकत्वरूपभावमंगलात्मकं कर्त्तुर्विद्यासिद्धिबीजं, 'ऐं'" इति -
For Private And Personal Use Only