________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
mmmmmmmmmmmmmmmmmmmmmmmmmms
उत्तरतश्च, मूलतोऽस्तित्वादिभेदतः षविधः उत्तरतो जातिसमुदायभेदरूपः जातितः गवि गोत्वं, घटे घटत्वं, वनस्पतौ वनस्पतित्वं, समुदयतो सहकारात्मके वनेसहकारवनं, मनुष्यसमूहे मनुष्यछंद, इत्यादि समुदायरूपः अथवा द्रव्यमिति सामान्यसङ्ग्रहः जीव इति विशेषसङ्ग्रहः तथा विशेषावश्यके "संगहणं संगिन्हइ संगिन्हंतेवतेणं जं भेया तो संगहो संगिहिय पिंडियत्थं वउज्जास्स" संग्रहणं सामान्यरूपतया सर्ववस्तुनामाकोडनं सङ्ग्रहः अथवा सामान्यरूपतया सर्व गृह्णातीति सङ्ग्रहः अथवा सर्वेऽपि भेदाः सामान्यरूपतया सगृह्यन्ते अनेनेति सङ्ग्रहः अथवा संगृहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत् सङ्ग्रहीतपिण्डितार्थ एवंभूतं वचो यस्य सङ्ग्रहस्येति सङ्ग्रहीतपिण्डितं तत् किमुच्यते इत्याह संगहीय मागहीयं संपिडियमेगजाइमाणीयं ॥ संगहीयमणुगमो वा वइरे गोपिडियं भणियं ॥१॥ सामान्याभिमुख्येन ग्रहणं सङ्गृहीतसङ्ग्रह उच्यते, पिण्डितं त्वेकजातिमानितमभिधीयते पिण्डितसङ्ग्रहः अथ सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधीयते व्यतिरेकस्तु तदितरधर्मनिषेधाद् ग्राह्यधर्मसङ्ग्रहकारक व्यतिरेकसङ्ग्रहो भण्यते यथा जीवोजीव इति निषेधे जीवसङ्ग्रह एव जाताः अतः १ सङ्ग्रह, २ पिण्डितार्थ, ३ अनुगम, ४ व्यतिरेकभेदाच्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवान्तरसामान्यं पिण्डितार्थमभिधीयते महासत्तारूपं अवान्तरसत्तारूपं " एगं निचं निरवयवमकियं
For Private And Personal Use Only