________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
कलिमलाविलोऽप्यर्थिनां गण-श्वरणपङ्कजं यस्य संश्रितः । स तु गतापदः मूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ।। ८ ॥ मुखनिधिप्रद स्तोत्रमेतकत, पठति यो जनो हेमसंस्कृतम् । सुरवराचिंतः पुण्यवानह-निशमनलल्पधी राजतेतराम् ॥९॥
शिक्षणाष्टकम् ।
श्रीपानादिजिनेश्वरो गृहितया सर्वोपयुक्ताः कलाः,
सम्यग्भेदवतीरभिन्नहृदयः शिक्षाकृते देहिनाम् । किं कर्तव्यविमूढताहतधियामादिष्टवानादरात्,
तेनाद्याऽपि विवेकिता जनगता दृग्गोचरा जायते ॥१॥ पारम्पर्यगताऽधुना विजयते रीतिः मुशिक्षात्मिका,
भूतानां सकलोन्नतिप्रथयिनी चाध्यात्मिकेभ्यो हिता। सद्विज्ञानलता वितानजलदश्रेणिः सदानन्ददा,
तन्नवास्ति यया न सिद्धयति भुवि यत्किं बहूक्तेन वा ॥२॥ शिक्षादीक्षा-वितरणपटुः सिद्धसेनाख्यसरिः, ___ मुरि:शिक्षावचनविबुधो हारिभद्रोऽद्वितीयः । यस्मादेतत्पटुमतिमतां शिक्षणं सर्वदाऽहं,
सिद्धेमूलं विकलमनसां जायते वै विशेषात् ॥३॥
For Private And Personal Use Only