________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૭ शास्त्रविशारद-योगनिष्ठ-श्रीमद्-बुद्धिसागर
सूरीश्वरगुरुस्मरणाष्टकम् ।
( ललितभद्रिकावृत्तम् ) विबुधवन्दितं तच्चवे दिनं, वृषधुरन्धरं योगपारगम् । समयकोविदं मूरिशेखर, स्मरत सद्गुरुं बुद्धिसागरम् ॥१॥ क्षुभितदेहिनां संमृतेर्भयाद्-विशददेशनादायिनोद्धृतिः। अकृत येन तं सुरिशेखरं, स्मरत सद्गुरुं बुद्धिसागरम् ॥२॥ विमलवाचनां यन्मुखाम्बुजा-च्छ्रवणगोचरीकृत्य भावतः । अमरतां गताः मूरिपुङ्गव, स्मरत तं गुरुं बुद्धिसागरम् ॥ ३॥ स्मरणमुत्तमं यस्य भूतले, सुखविधायकं शान्तपावनम् । शरणमणिनां मूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ॥ ४ ॥ समतया मनोवृत्तिरदद्भुताऽ-भवदखण्डिता यस्य कोमला। समजनेषु तं मूरिशेखर, स्मरत सद्गुरुं बुद्धिसागरम् ॥ ५ ॥ चयनमक्षयं शास्त्रसंपदा, विहितमुत्कटं येन धीमता। विकसति स्वयं सर्वदा क्षितौ, स्मरत तं गुरुं बुद्धिसागरम्॥६॥ विजितकामनः शुद्धमानसः, सततमुन्नतश्रीसुधाकरः । दलितदुर्मदा मूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ॥७॥
For Private And Personal Use Only