________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८४) नावप्रमाणसाहाय्य, मत्कृतं विन्दते जनाः। विना रूपाभिधोपाधीन् , रमन्ते मयि ये जनाः २३५ लभन्ते ब्रह्मचर्येण, ब्रह्म तद्धाम मामकम् । नास्तिकैः सह संगेन, शीलनाशो नवेध्रुवम् ॥२६॥ नान्तर्बन्धं वह त्वं च, मयि चित्तं निवेशय । कोटिलिप्सावलोकेन, व्यभिचारी न मजनः ॥२३॥ भूत्वा मद्भजनाऽऽसक्ता जीवन्तु ब्रह्मचर्यतः । सर्वत्र मत्समं जावं, धृत्वैक्यं च प्रवर्तताम् ॥२३८॥ आत्मदानै हरन्भेदं, संघादावेकतां कुरु । मत्संघ ऐक्यमारूढो-धर्मवृद्धिं करोतु सः ॥ २३९ ॥ दत्वा च स्वार्थभोगाँस्त्वं, विधेहि योगसाधनम् । मां निर्भेदेन सेवस्व, त्यज संकुचितान्मतान् ॥२४॥ नरा नार्यः क्रियाज्ञान-वर्तन्तां स्वस्वजावतः । देशप्रजासुखे सौख्यं, तदुःखादुःखमाऽऽत्मनः॥ २४ ॥ ज्ञात्वैकीभूय वर्तन्तां, मिथ्यागर्व विधत्त न । राज्यं सत्तां धनं देह, संवैक्याय विसृज्यत ॥२४२॥ भेदवन्मतमुन्मुच्य, जैनधर्म भजस्व च । विश्वासो मयि सत्प्रीति-जैनत्वस्येतिलक्षणम् ॥२४३॥ मतक्रियादिनेदाँस्तान्, त्यज त्वं संघरागतः । विचार्य वर्तते संघ-एवं मच्छासने गुणः ॥ २४४ ॥
For Private And Personal Use Only