________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गच्छेत्कालानुसार यो, मदाज्ञाराधको गुणी। संधैक्यार्थ सदा मुञ्च, क्रियावेषकदाग्रहम् ॥२४५॥ देशकालानुसारेण, लाभाऽलाभस्य बोधतः । ज्ञात्वा कालं वत्संघो, मदाज्ञाधारकश्च सः ॥२४६॥ संघायैक्यं च यत्राऽस्ति, तत्र शान्तिः सुखं महत् । विक्षेपो यदि वाऽऽगच्छे, त्तं निवार्य बली भवेत् २४७ विक्षेपाणां विनाशेन, स्वाऽऽत्मभोगप्रदानतः। मद्भक्तिं विन्दते लक्ताः, संघादिक्लेशनाशनात् ॥२८॥ मनोवचःकायधनादिभोग
प्रदानतो योग उदेति नूनम् । संघादिकैक्ये स्वहितं च बुध्वा, ___ व्रजन्तु चैक्येन नराश्च नार्यः ॥ २४९ ॥ नैक्यं विना सुखं किञ्चि-न्मद्भक्तिरैक्यमेव हि । सर्वस्वार्थान्परित्यज्य, मानं त्यक्त्वैक्यमाचर ॥५०॥ यूयं तु संघ एव स्थ, म्रियध्वं संघहेतवे । संवैक्ये मां च पश्यन्तु, सर्वशक्तेरिदं रहः ॥ ५१ ॥ यत्रैकता स्वर्ग उदेति तत्र,
यत्राऽस्ति नैक्यं नरकोऽस्ति तत्र । यत्रैकता तत्र विशालशक्ति
भेंदो यत स्तत्र विशालखेदः ॥ २५२ ॥
For Private And Personal Use Only