________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७९) उपकर्तुस्तिरस्कारः, सङ्कटमृत्यु रेव वा । अपकीर्तिर्वधो बन्धः, स्या ज्ज्ञानी नाऽत्र शोधति १८५ त्वं बन्दस्वोपकर्तारं, तन्नाम नच गोप्यताम् । न निन्दयोपकर्तारं, नोपकर्तृवधं कुरु ॥१८६ ॥ गुरुदेवोपकारो य-स्तं चित्ते स्मर नित्यशः। जगजीवोपकाराय, सोयमा स्याः सुदर्शने ॥ १८७ ॥ यत्कालेऽस्त्युपकारो यः, कुरुध्वं तं नराः स्त्रियः। जीवा जीवन्ति नो केचि-दुपकारग्रहं विना ॥१८८॥ फलं बहुपकारेऽस्ति यथाभावं फलं नवेत् । कामिनां काम लानोहि, बहु निष्कामिनां फलम् १८९ परोपकारे त्यज नो स्वनीति, परोपकारे कुरु नैव भीतिम्। नैवोपकारे कुरुखेदलज्जे, सुदर्शने नापिविभेद दुःखे१९० निष्कामेन सकामेन, भावेनोपग्रहेनृणाम् । धनप्राणादिदानेन, मम ज्ञान प्रकाशते ॥ १९१ ॥ उपकारेऽपकारं च, यदि कुय्युनराः स्त्रियः॥ तर्हि तदुपकारेण, भक्तिमुक्तिश्च निश्चिता ॥ १९२ ॥ उपकारा भवन्त्येते, रजःसत्वतमोगुणाः ॥ सत्त्वगुण्युपकारोऽस्ति, नावेनैतान्समाचर ॥१९३॥ उपकारेषु सम्मान्ति, तपोनावत्रतादयः। उपकारेषु ते धर्मा-उपकारेऽखिलाः क्रियाः ॥ १९४ ॥
For Private And Personal Use Only