SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८० ) " " उपकारा अनेके थे, यथाशक्तिसुखप्रदाः । नैसर्गिकोपकारश्च, प्रकृत्या तस्य जायते ॥ १९५ ॥ जीवन्मृता जवन्त्येते, ये लोका अपकारिणः । योगं क्षेमं व ते यान्ति मच्छ्रद्धाप्रेमधारकाः ॥ १९६॥ उपकारैर्यथा भाव - स्तथा धर्मोऽपि वर्द्धते । वैरशान्तिस्तथा धर्म - वृद्धिः स्यादुपकारतः ॥१९७॥ दुःखिरोगिजनोद्धारं कर्तुं भवन्तु तत्पराः । उपकारोहि वीराणां, धर्म एवाऽस्ति वर्णिनाम् ॥ १९८ ॥ कुरु यात्रार्थिनां शालां दानं देह्यजयादिकम् । पशुपक्षिनृणां दुःख-नाशेन त्वं सुखी जव ॥ १९९ ॥ जजन्ति नाम मे ये च, हृदि तेषामुपग्रहः । परमार्थपरा भक्ताः, स्वार्थ जानन्ति तत्र हि ॥ २०० ॥ तत्रोन्नतिः सुखं शान्ति - जैनधर्मो भवेद्यतः । हिंसादिदोषनाशः स्या- त्सन्तोषः सर्वदेहिषु ॥ २०१ ॥ बुद्धिसत्त्वादिवृद्धिः स्या- त्सर्वं स्याच्छान्तिकारणम् । विस्तृते जैनधर्मे च सर्वे पापं विनश्यति ॥ २०२ ॥ , समाज देशयोवृद्धि-जैनधर्मस्य सेवने । जैनधर्मेऽखिला धर्माः, कुरु कर्माणि निश्चयात् ॥ २०३ ॥ पालयेद्देशनां मेवे - त्सुखं देशसमाजयोः । जैनधर्मक्रियाज्ञाने, यत्र स्तश्च ततः सुखम् ॥ २०४ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy