________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६ ) शरीरवेषीयविवर्तनानि, क्रमेण यस्मिन् नटवेषवत्स्युः । स्वकर्मणाऽसौ परिवर्त्यतेचेत्, मिथ्या न शोकः स्वजनै विधेयः ॥ ११ ॥ न ज्ञानिनो विदधतीह कदापि शोकं, जानाति कर्म निखिलं च सदायमाऽऽत्मा । दध्यात्कदापि नहि मोहमथापि मिथ्या, ज्ञानेन कर्म निखिलं कुरुते स्वकीयम् ॥१२॥ शरीरमाऽऽत्मेति मतानुगाना, समुद्भवत्येव भयंच मोहः। शरीरजिन्नेतिमतानुगानां, विनश्यतः शोकभये त्ववश्यम् गृहाण मात्रादिगुणान्यथेच्छं, विधेहि धर्मषु पर प्रवृत्तिम् । मनुष्य योनेरियमस्ति यात्रा, अहंत्वमेतां त्यजवृत्ति मेकाम्
॥ १४॥ देहं विभ्रतिये च निश्चितमथो तेषां तनूत्सर्जनं मा त्वं विस्मर चाऽत्र मानवनवे धर्मस्य संधारणम् ॥ सम्यक चैतदवोहि मोहपरिणाम्याऽऽत्मा भवेत्राम्यती संसारात्पुनरेष आत्मपरिणाम्याऽऽत्मा परमुच्यते १५
For Private And Personal Use Only