________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६॥
हे नन्दिवर्द्धन सुदर्शन इत्यवेहि, देहादतीव पृथगस्ति किलायमाऽऽत्मा । सम्बन्ध एष खलु कायकृतोऽस्ति मिथ्या, तस्मान्नशोककरणेन भवेद्धि किञ्चित् चेद्वेरिस मातरमथः पितरं शरीरं, किंरोदनं निपतनेन तनोस्तदत्र । दृष्टो जडः पुनरसौ क्षणिकोविनाशी, तस्मान्न शोककरणेन भवेद्धि किञ्चित् देहानवाप्य सकलान्विकलाननन्तान, सन्त्यज्य तानपि समागत एष आत्मा। नो हन्यते स खलु कैरपि हन्यमानः, तस्मान्न शोककरणे फलमस्ति किञ्चित् भात्मा जनन्या जनकस्ययो वा, न मार्यमाणोऽपि कदाऽपि मर्ता । चारित्र्यमेत्येह विभूय सिद्धः, स शाश्वते स्थास्यति सिद्धलोके आत्मा जनन्या जनकस्ययो वा, सचाऽन्य देहे स्थितिमापनूनम् । तद्वर्तमानेतिशरीरनाशात, कथं स्वचित्ते विदधासि खेदम्
॥८॥
For Private And Personal Use Only