________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४) शोकविनाशकग्रन्थः
॥३
॥
प्रणम्य श्रीमहावीर, सर्वज्ञं जिनशेखरम् । करोमि तत्प्रबोधाऽऽत्म-, ग्रन्थं शोकनिवारकम् ॥१॥ सिद्धार्थभूपे जनके दिवंगते, स्वर्ग गतायां त्रिशलाख्यमातरि । लेभेऽथ शोकं हृदये सुदर्शना, शोकं तथाऽवाप स नन्दिवर्धनः देशे तथा ज्ञातिगणे कुटुम्बे, शोकः परं व्याप प्रजागणेषु । श्रीमन्महावीरमनोऽन्तराले, भृशंतरां भावदयाऽऽविरासीत् स बोधयामास च नन्दिवर्धनं, तथा कुटुम्बान्पुरवासिमानवान् । शुकुसंनिरोधों वरबोधतोऽभव, तथा यथा सन्तुतुषुश्चतेजनाः मातुः पितुश्च मरणेन कथं स्वचित्ते, शोकं परं वितनुषे म्रियते न चाऽस्मा। सर्वाऽऽत्मनां मिलति याति तनुः स्वभाग्या, दायुःक्षये गमनशम्बलमस्ति धर्मः
॥
४
॥
For Private And Personal Use Only