________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २३ )
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञाय मत्समान्विश्व-, जीवान्मैत्र्यादिनावतः । विश्वस्य सर्वजीवेषु, दृश्योऽहं ब्रह्मवेदिनिः ॥ ११० ॥
हिंसाद्यधर्मयुद्धानि, देशरङ्गादिमोहतः । धर्मान्धरागतो भक्तैः कर्त्तव्यानि न सज्जनैः ॥१११॥ धर्मादिभेदभिन्नानां, विश्वस्य सर्वदेहिनाम् । सार्धमाऽऽत्म्यैक्यभावेन वर्त्तनं शान्तिशर्मदम् ॥ ११२ ॥ आहारादिसमुत्पाद्यं, न्यायसंपन्नवित्ततः ।
मृषास्तेयादिकं त्यक्त्वा, स्वकीयं जीवनं वहेत् ॥ ११३ ॥ सूरिवाचकसाधूनां साध्वीनां च विशेषतः । सेवाक्तिः सदा कार्या, आहारादिप्रदानतः ॥ ११४ ॥ श्रेणिक !! त्वां प्रजाकाय्यैं, राज्यं समुपदिष्टवान् । जूपानामपि भूपानां, त्यागिनां राज्यमाऽऽत्मनि ॥११५॥ त्वं स्वाधिकारतो गच्छ, शुद्धाऽऽत्मोल्लासमाप्नुहि । विज्ञापय प्रजाकार्थ्य, मार्थ्यत्वाला सलब्धये ॥११६॥ श्रेणिकं बोधयामास, हर्षो भूपप्रजास्त्रभूत् । प्रणमन्ति प्रभोः पादौ प्रभुं स्मृत्वा शमाप्नुयुः ॥११७॥ वीरप्रभोश्च सद्बोधे, कृते मोहो निरुध्यते । जायते परमानन्दो, मङ्गलानि पदे पदे । प्रजासमाजकर्त्तव्य-ग्रंथोऽयं चारु निर्मितः । सर्वविश्वोपकाराय, बुद्धिसागरसूरिणा
"
॥ ११९॥
For Private And Personal Use Only
॥११८॥