________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ ) उत्सर्ग मपवादं च, ज्ञात्वा कर्तव्यमाचरेत् । प्रजा जानन्ति यत्रैवं, तत्र साम्राज्यमात्मनः ॥१०॥ अल्पदोषोमहान्धर्मो, तत्कार्य च समाचरेत् । अल्पधर्म महादोषं, तत्कार्य न समाचरेत् ॥१०१॥ कर्मणोऽतीततां प्राप्य, सिद्धः स्यादायुषःक्षये । केचिद्भव्या दिवं यान्ति, नृभवं यान्ति के वन ॥१०२॥ पुण्येन शान्तिपुष्टीस्तः तुष्टिश्च द्रव्य नावतः । पापमार्गा विनश्यन्ति, मद्भक्ता ये च मत्समाः॥१०३॥ क्षेत्रकालानुसारेण, प्रजासंघप्रवृत्तयः । ज्ञात्वा कुर्यु नरा नार्यः पूर्णानन्दंच विन्दते ॥१४॥ जैनधर्म च विज्ञाय, प्रमाणं स्यात्प्रजाक्रिया । ज्ञात्वा सापेक्षया धर्म, स्वाऽधिकारेण वर्तताम् ॥१०५॥ परस्परं प्रजासंधै भूपैश्च देशमोहतः । वित्तादिमोहतो युद्धं, कर्त्तव्यं न कदाचन ॥१०६॥ अन्यदेशादिलोभेन, हिंसायुद्धं निपातकृत् । अशक्तधर्मिरक्षार्थ, धर्म्ययुद्धादिकं श्रयेत् ॥१७॥ स्वाऽऽत्मदेशादिरदार्थ, धर्मयुद्धं च धर्मिणाम् ।। अल्पदोषमहाधर्म, विवेकेन प्रवर्त्तते ॥ १० ॥ दुष्टभूषप्रजादिभ्यः स्वाऽऽत्मसंघादिरक्षणम् । कर्तव्यं हृदि मां धृत्वा, धर्म्ययुद्धादिकर्मभिः॥१०९॥
For Private And Personal Use Only