________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७ ) शोकमा कुरु नन्दिवर्द्धन जगन्मायाऽस्ति मिथ्या यतः पर्याया इति पुद्गलस्य सकले स्वप्नेन्द्रजालोपमाः॥ रुद्याकिं मृतकाय रोदकजना यास्यन्तियस्मात्पुनः संयोगोऽस्ति यतस्ततोऽस्ति विरहश्चैषापुराणीस्थितिः१६ इन्द्रजालसमाः सर्वे, खेलास्सन्ति मृषाभवे । वारयन् रागरोषौ च, आत्मा संजायते महान् ॥१७॥ वसन्त मात्मानमदःशरीरे, शरीरतो भिन्न मवेहि बन्धो, । त्वमाऽऽत्मनः सम्प्रति पूर्णशुद्धथा। प्रमाणय प्रार्थितमोक्षसिद्धिम्
॥१८॥ किं नामरूपेषु करोषि मोहं न वर्त्तसे त्वं ननु नामरूपम् । नाशोऽस्ति रूपस्य तथा च नानो ब्रह्माविनाशीत्यवगच्छ बन्धो जवत्य भून्नाम तथा च रूपं ततः पृथग वर्तत एव चाऽऽत्मा ॥ जडं न चाऽऽत्मान मवेहि बन्धो जडेषु किं प्रेम सदाऽऽत्मनांस्यात् ॥ २० ॥ न जेदलावोऽस्ति कदापि चाऽऽत्मनो जडस्य नेदोऽस्ति हि पुद्गलस्य च ॥
For Private And Personal Use Only