________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९ ) सद्गुणैरुन्नतिः शान्ति, मद्भक्तानां सदानवेत् । न मोहो नामरूपेषु, स्वाधिकारप्रवर्त्तनम् ॥ ७० ॥ वर्द्धत हृत्सरो हर्षे, मद्पं यान्ति मजनाः। व्यष्टिसमष्टिसद्वीरं, ज्ञात्वा मां मत्प्रियोजनः ॥७१॥ दोषं त्यक्त्वागणीभूय, सत्प्रजा मत्पदंवत् । त्यजेच्च विकथां निन्दा, मात्मनःसद्गुणान्भजेत् ॥७२॥ क्षमा याचेत दोषस्य, मनःशुद्धिं समाचरेत् । राज्यनीतिः शुभाज्ञात्वा, राजानं नापमानयेत् ॥७३॥ दुष्टाऽधर्मिनृपं दूरं, कृत्वा शान्ति वहेत्प्रजा। दत्ते न लातिनोलञ्चां, स राज्यनीतिपालकः ॥४॥ न्यायेन जीविकावृत्तिः स्वोपयोगेन जीवनम् । ईदृगभव्यप्रजा यत्र, तत्रानन्दः प्रवर्तते ॥७५ ॥ पापयुक्ता प्रजादुष्टा, भवेद् दुःखेनपीडिता। पृथक् स्याद्धर्मकर्मभ्यां, हृष्यात्पापं विधाय या ॥६॥ सतां या द्वेषिणी दुष्टा, सा प्रजा दुःखसंवृता। . देवे धर्मे गुरौ प्रीतिः पुण्यं धर्मशुभक्रिया ॥3॥ भूपप्रजासु यत्रैवं, तत्र नस्यु दिपत्तयः। त्यजेद्व्यसनिवस्तूनि, शास्त्रनावं च वेदयेत् ॥ ७८ ॥ वितण्डावादकलहं, त्यजेच्चान्तरवैरताम् । सत्वरजस्तमोवृत्ते रात्मा भिन्नोऽस्ति सत्तया ॥ ७९ ॥
For Private And Personal Use Only