________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) अतो मोहादिनाशार्थ, योगाभ्यासं वहेज्जनः। प्रजैवं ज्ञानिनी यत्र, क्षेमो योगश्च तत्र हि ॥ ८ ॥ अहंत्वंवृत्तिनिर्मिन्नः कुर्वन्नपि च निष्क्रियः। आसक्ति मन्तराकर्ता, शुद्धाऽऽत्मानं प्रपद्यते ॥१॥ सर्वाऽऽत्मानं स्ववत्पश्ये, सास्वर्गीया प्रजा स्मृता। आत्मैव परमात्मा स्या, दात्मवीरः प्रकाशते ॥८॥ स्यादाऽऽध्यात्मिकसाम्राज्यं, यत्रनीतिमयी प्रजा । यादृक् प्रजा नवेत्तत्र, तथादण्डादिरीतयः ॥३॥ कर्मरीत्या सुखं दुःखं, कर्मन्यायैः शुनाशुभौ । कर्मणा जवचक्रंतु, प्रजाभूपव्यवस्थितिः ॥८४ ॥ कर्मबन्धो न सज्ज्ञाना, यत्र तत्र न चान्धता। अग्निवदाऽऽत्मबुद्धानां, निरासक्तिः स्वकर्मसु ॥८॥ यत्र तु त्यागिनो वर्णा, जायन्ते ज्ञानिनस्ततः । नामरूपेषु नो मोहो, लोकाः प्रभुमयास्ततः ॥८६॥ यात्मझानस्य शिक्षाभिः, प्रजा भवति सात्त्विकी। आत्मज्ञानं विनात्वन्धा, भूपालोकाश्चनिर्गुणाः॥८७॥ हिंसाचुरा च युद्धं च, प्रजासंघे न वर्त्तते । शान्तिस्तुष्टिश्च पुष्टिश्च, व्यक्तानन्दः समुद्भवेत्॥८॥ राजाज्ञया प्रजावृत्तिः प्रजाभूपेषु धर्मिता। द्वयोरैक्यं भवेद्यत्र, तत्र ज्ञानंच शान्तिता ॥८९॥
For Private And Personal Use Only