________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्विड्रागौ हर्नु मन्यस्य, न्मयि विश्वासमाचरत् । मुक्तोमा शरणीकृत्य, साधून नवा च नक्षयेत् ॥८॥ निर्भिस्वातंत्र्यसाम्राज्यं, बहीराज्य मवाप्नुयात् ।। संघो भदन्तसाकारः समष्टिव्यष्टिशक्तिमान् ॥८१॥ संघनाशान्महापापं, दुःखमाविनवेद्भशम् । संघारि दुर्गतिं याया, नादद्यात्संघहारवम् ॥ ८॥ भवेत्पूर्णोन्नतिः प्राप्त्या, त्यागिसंघशुभाशिषः । संघनाशो हि मन्नाशो, ज्ञात्वा संघानुगो भव ॥८॥ संघः सागरगम्भीरो, जुष्ट्वा वीरो जव स्वयम् । यत्काले यच्च योग्यं स्या, कर्त्तव्यं तद्विवेकतः ॥४॥ ज्ञानिनां सम्मतं यत्स्यात् , योग्यं तत्परिवर्तनम् । संघदाससमा ज्ञेया, श्चक्रीन्द्रायाः स्वभक्तितः ॥५॥ कुर्वति संघसेवां ते, देवाः संघे सति स्थिराः । विद्यादिकगुणश्चेत्स्था, त्तदा संघो न दुःखभाक् ॥८६॥ संघः सदैव मत्पश्चाद्, वर्तिता स्याच्छिवप्रदः। संघः शक्तिं विना नश्ये, न्मदाज्ञाभ्रष्टजीवनः ॥८॥ मदाज्ञां धारयेद्यश्च, संघोऽसौ न पतेक्वचित् । मच्याखिलाशक्ति, रात्मा यातिपरात्मताम् ॥८॥ शरणे मयि यश्चैति, तदाचारोऽस्ति मुक्तिदः । जिनो रागद्विषोर्जेता, जैनास्तदनुयायिनः ॥ ८९ ॥
For Private And Personal Use Only