________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८) यदाऽज्ञानी प्रधानं स्यात् , संघपात स्तदा नवेत् । ज्ञानं देहि तु संघेभ्यो, धार्मिकव्यावहारिकम् ॥॥ गृहिसंघ श्चतुर्वर्णो, गुणकर्मानुसारतः। वर्तित्वाऽऽज्ञानुसारं मे, धर्म कुर्य्याच्छमाप्नुयात् ७१ जावै रुपशमायैस्तु, स्वाऽऽत्मधर्मस्तमुझसेत् । संत्यज्य सर्वथा मोहं, मुक्तिं गच्छच्चिदात्मिकाम् ॥७॥ आत्मैव परमाऽऽत्मा स्याद्, ध्येयः संघस्य चेदृशः । आविर्भवति संघस्य, ध्येयमेवं स्वभावतः ॥ ३ ॥ मोहकर्म परित्यक्तु, मात्मज्योतिः प्रकाशय । आदर्शसाध्यदृष्टिर्हि, संघस्य सर्वदा मता ॥७४॥ सहर्ष धर्मिणं पश्येत्, दृष्ट्वोत्कर्ष प्रकाशयेत् । परस्परं महाप्रेम, धारको धर्मिरक्षकः ॥७५॥ दुःखे परस्परं नाग, मादातुं रागमुन्नयेत् । मेले कोऽपि न भेदःस्या दर्पितः स्यात्परस्परम् ॥७६॥ संघसेवां स्वसेवां हि, ज्ञात्वा कुव्यसनं त्यजेत्। संघाज्ञापालने मृत्यु, माप्नुयात्स्वार्पणप्रियः ॥७७॥ साधर्मिकाय न द्रुह्ये, न मुझे नामरूपयोः । साधर्मिको यदागच्छे, सोल्लासंस्खागतंचरेत् ॥ ७८॥ संघाऽवज्ञाञ्चनो कुर्य्या, न्मानयेच्छ्रमणादिकम् । कृत्वा धर्मिण मेवान्यं, खादेत्संश्राव्य देशनाम् ॥७९॥
For Private And Personal Use Only