SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( ७ ) क्षेत्रकालानुसारेण धर्मार्थाः स्युश्चयाः क्रियाः । ममाज्ञा निश्चिता तत्र, संघो यत्परिवर्त्तयेत् ॥ ६० ॥ चतुर्धा मिलितः संघ, स्तस्यकार्येतुमत्तमम् । कलौ तस्यानुसारेण, जयन्संघः प्रवर्धते ॥ ६१ ॥ क्षेत्रकालानुसारेण, चारोह स्वाधिकारतः । द्रव्यादिकं परिज्ञाय, मत्संघोऽस्ति सदाजयी ॥ ६२ ॥ यः संघः सर्वदेशेषु, तयात्राभिर्भवेद्गुणी । प्रतिवर्षे चरेद्यात्रां, चरस्थावरतीर्थयोः संघभक्तिं यथाशक्ति, कुर्वतां सिद्धिरुद्भवेत् । योगक्षेमविधाता सः श्रद्धाप्रेमी गुरौ मयि ॥ ६४ ॥ विधर्मिप्रतिपक्षिषु, शुद्धस्नेहविधायकः । ॥ ६३ ॥ दुष्प्रपञ्चैर्न वञ्च्यः स्या, न्नेच्छेद् दुष्टजनाऽशुनम् ६५ संघोजीवतिसम्मत्या, नीत्याऽनङ्गश्च सद्गुणी | कदाचित्तत्रनो धर्मः कर्म यत्संघहानिकृत् ॥ ६६ ॥ धर्मे सत्यप्यधर्मोऽसौ कर्म यत्संघपातकृत् । तत्र धर्मो यतोवृद्धिः संघस्य देशकालतः ॥ ६७ ॥ संघो वर्द्धत यत्कार्यात्, धर्मः स्यात्सर्वदाततः । जानन्ति ते मदाज्ञाज्ञा, मदाज्ञैव शिवङ्करा ॥ ६८ ॥ यएवं वेत्तिशक्तोऽसौ भक्तः संघ स्तु मस्त्रियः । संघे पुरस्सरोज्ञानी, संघप्रगतिकारकः ॥ ६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy