________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०) मोहादिहननाचारो, जैनधर्मः स वर्तते । जैनधर्मधरः संघः साधकोऽन्तश्चिदाऽऽत्मनः ॥ ९ ॥ शुष्यर्थे सर्वजीवानां, जैनधोऽस्ति पावकः । साधकश्चाष्टयोगाना, जैनधर्मी वरोऽस्त्यसौ ॥९१ ॥ साधुश्रावकधर्मोऽयं, गुणस्थानकधारकः। असंख्यदृष्टयो मान्ति, मद्धर्मेऽपेक्षयासह ॥९२॥ मतमार्गभिदः सर्वे, मद्धौ मान्ति दृष्टयः। चतुर्विधोऽस्ति मे संघो, ह्यसंख्यदृष्टिधारकः ॥ ९३ ॥ असंख्यदृष्टौ सापेक्षे, जैनो नास्ति कदाग्रही। मिथ्यामोहमतित्याग, आत्माऽऽनन्दो विरक्तिता ९४ ज्ञानं भक्तिश्च सद्योगो, भोगेसति विरागता । दुःखे सुखे समत्वं च, निरासक्तिश्च शुद्धता ॥९॥ न मोहः कर्मणः पाके, न द्रोहः सकलाऽऽत्मसु । आत्मवत्सर्वजीवानां, द्रष्टासंघोऽस्ति शान्तिदः ॥१६॥ विश्वोद्धारश्च सज्ज्ञाना, दयोपकृतिसद्गुणैः । भेदनावो न लोकेषु, सर्वलोकहितंकरः ॥९७ ॥ परोपकृत्कियां कुर्वन्, मत्सत्यं जुविबोधयन् । मनुष्यजातिमुद्धर्तु, शान्तो दान्तोऽथसंयमी ॥९८॥ पारतंत्र्यकरं कर्म-वारयन् धर्मधारकः । ईसंघसमुत्क्रान्ति, र्निजदोषनिवारिका ॥१९॥
For Private And Personal Use Only