________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४ )
Acharya Shri Kailassagarsuri Gyanmandir
"
|| 30 ||
॥३२॥
,
बाह्यान्तरं च साम्राज्यं दध्यान्निष्कामभावतः । मनोवोवपुःशुद्धिं धारये न्मोहवारक; मदिरामांसतो दूरं, क्रूरः स्यान्नाऽपराधिषु । कार्पितः स्याच्च धर्म्मार्थ, खादेत्सम्नोज्य धर्मिणः ३१ निरुन्धन् दुष्टवृत्तिंच, शिक्षये दप्यधर्मिणः । संघस्य भक्तिसेवार्थ, सप्राणादिनिजार्पणम् अन्योऽन्यंमत्समाप्रीति, योगक्षेमौच धारयेत् । संघे धर्मे गुरौ देवे, चतुर्षु च निजार्पणम् ॥ ३३ ॥ न स्याद् दुर्व्यसने चेष्टा, स्वाधिकारप्रवृत्तिमान् । दध्याद् गुणं त्यजन् दोषं भवेद्रागीच धर्मिणाम् ३४ विश्वस्मिन् सर्वसंघानां प्रचारे वपुरर्पणम् | स्वाधिकारे गुणस्थान, - गुणकर्मक्रियोद्यतः ॥३५॥ कालं ज्ञात्वा प्रवर्त्तेत, संघ एतादृशो महान् । सर्वोन्नतिकराचार, विचारान् धारयन् गुणी ॥३६॥ सर्वखण्डस्थसंघानां, सेवया जायते जिनः । मुक्तो ज्ञानक्रियाभ्यां स्यान्, मत्सदुक्तिविचारवान् ३७ अन्यधर्मिषु न द्वेष्टि, नाऽन्येषां वैरधारकः । हिंसामृषाचुरात्यागो, ब्रह्मचारी विरागवान् ॥३८॥ मत्समा सर्वजीवेषु, प्रीति दोषापहारिणी । धारयन् वारयन् रोषं, सर्वदोषिषु बोधवान् ॥३९॥
For Private And Personal Use Only