________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्येन संघ मुक्तिः स्यान्नमोहो मम सविनाम् । विद्याशक्तिप्रचारंच, कुर्वन्संघः प्रवर्द्धते ॥ २० ॥ दुष्टाद्धि व्यसनादरः संघोऽतीव प्रवर्द्धते ।। न धारयेत्कदापीया, क्षममाणः क्षमापयेत् ॥ २१ ॥ ददत्स्वनोगं संघार्थ, नीत्याशक्तिं नियोजयेत् । गाम्भीर्यौदार्यनीतिष्ठः प्रेमकृच्च परस्परम् ॥२२ ।। सहमानः समर्थोऽपि, आराध्यः संघईदृशः। रक्तः परोपकारेषु, आसक्तो भक्तिसेवयोः ॥२३॥ ममोपदेशं संजानन्, संघः सत्यगुणान्वितः । स्वाऽधिकारेषु यत्कर्म, धर्म जानश्चतत्कृतौ ।। २४ ॥ एवं संघस्य मंतव्यं, यात्याऽऽध्याऽऽत्मिकसद्गतिम् । अन्यजीवेदयां कुर्यात् , धर्मिणां प्रीतिमाचरेत् ॥२५॥ सम्मत्यैकीप्रवर्तेत, सर्वकार्ये विवेकवान् । दूष्ययुद्धं च संत्यज्य, दृढोगुरुसुरार्चने ॥ २६ ॥ कृत्वा साधर्मिकप्रीति, प्राणिहिंसानिवारकः । दुष्टं चाजिमुखे रुन्ध्याद्, दुष्टाऽन्यायादिवारकः ॥२७॥ साधुसंघस्य सम्मानं, कुर्यादाऽऽत्मप्रबोधनम् । सज्ज्ञानं सर्वलोकेभ्यो, दद्याद् गर्व न कारयेत् ॥२८॥ संघः परात्मतामेति, सात्त्विकी वृत्तिमाचरन् । सर्वार्पणं च संघाय, कुर्वन् गर्व न धारयेत् ॥२९॥
For Private And Personal Use Only