________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ९३ )
Acharya Shri Kailassagarsuri Gyanmandir
कुरु देवसमान्बाला-वृणु निर्भिस्वतन्त्रताम् । बलं विद्याऽथ साम्राज्यं, जैनधर्मस्य जायते ॥ ३२९॥ भोगः शक्तिर्दया दानं, बालसंघे निरोगिता । दुर्गुणव्यसनाद्दूरं, तत्र शक्तिः प्रजायते ॥ ३२२ ॥ बाले स्वतन्त्रता प्रेम, विद्यारोग्यबलानि च । सर्वनीतिकलास्ताभि-मिथ्यागर्यो न जायते ॥ ३२३ ॥ स्थित्वा गुरुकुले विद्यां, विद्यार्थी सेवयाऽऽप्नुयात् । धर्माचार्ये विनीतः स्यात्कदाचिन्न वदेन्मृषा ॥ ३२४ ॥ लभेत विनयाद्विद्यां, धर्माचार्य च सेवयेत् । ज्ञापयेद्गुरुदेवस्तं, मानवानां शुभाः क्रियाः ॥ ३२५॥ जैनधर्मस्य वेदाश्च, रहस्यं ज्ञापयेत्स्फुटम् ।
बालिका : शिक्षयेदेवं, विनयं प्रेमसेवनम् ॥ ३२६ ॥ लीपिभाषाक्रियाज्ञानं, नानाज्ञानं व शिक्षयेत् । शिक्षयेत्तं स्मरेद्याव - द्विद्यार्थी जायते महान् ॥३२७|| विद्यार्थिगुरुसाहाय्या-जायते सत्यमुन्नतिः पूज्योपकारको देवो-धर्माचार्योऽस्ति शीर्षवत् ॥३२८॥ हस्तौ बध्वा प्रणम्योऽसों, ध्यानं धर्मगुरोः कुरु । पठ सर्व कलाः प्रेम्णा, गुरुतः स्वानुभूतितः ॥ ३२९ ॥ विद्धि गुरुकुले वासं, बालानामष्टवर्षतः । वसेयुर्ब्रह्मचर्येण, गुर्वीपार्श्वे च बालिकाः ॥ ३३० ॥
For Private And Personal Use Only