________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९४ )
योग्यावस्थासु लग्नं स्या - त्सत्यं प्रेम यतो भवेत् ।
॥ ३३३ ॥
यत्राऽऽत्मा गुणकर्मभ्या - मेको लग्नं तदुच्यते ॥३३१ ॥ एकता यत्र चान्योन्यं, तल्लग्नं प्रणयात्मकम् । गुणान्विना यतो लग्नं, विघ्नास्तत्र भवन्ति हि ॥ ३३३ ॥ नाधर्म्यकामतो लग्न- मात्मैक्ये लग्नमुत्तमम् | शुद्धप्रेम यतश्चाऽस्ति, तल्लग्नमवधारय लग्नं गुणं विना हेयं, सत्सख्ये लग्नमुत्तमम् । प्रीतिं विना दहेच्चित्तं नेच्छालग्नं ततः कथम् ॥ ३३४॥ पत्नी दासी पतिर्दास - औदासीन्यं ततो द्वयोः । मयि यत्र न विश्वासः, का लग्नाशा ततो जवेत् ३३५ देहलग्नं पशोस्तुल्यं, मेलो न गुणकर्मणाम् । नोन्नतिः पशुलग्नेन, शुद्धप्रीत्या सुखं हितत् ॥ ३३६ ॥ स्वार्थः परस्परं यत्र, न यत्र परमार्थता | यत्राऽधार्मिक कामाशा, तत्र पत्नी न वा पतिः ३३७ पृथक् कीर्त्यभिलाषः स्या- दपमानं सहेत न । भवेदन्योन्यतो निन्दा, तत्र लग्नं न शोजते ॥ ३३८ ॥ परस्परं मनोनेदः, खेदः क्लेशस्तथा भवेत् । नान्योन्येषु मिलच्चित्तं तत्र किं लग्नमुत्तमम् ॥ ३३९॥ व्यभिचारो यतो लग्ने, सुखिनो न नरास्ततः । गुणकर्म विना पुत्रा, जायन्ते दासदुःखिनः ॥ ३४० ॥
For Private And Personal Use Only