________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२ ) प्रख्याता बालके तात- गुरुमात्रनुसारिता । माता शिक्षकतुल्याऽस्ति, पाठयन्ती सुतान्गृहे ३११ बाल्ये विहितसँस्कारा - स्तादृशः सारउद्भवेत् । पितरो भाविनो बालाः, शिशुरेव महद्धनम् ॥३१२॥ बालो भूपस्तथा देवो - बालकान्नज शिक्षणैः । देशोदयोधनं बालो - नानाजाषां च शिक्षय ॥ ३९३ ॥ वित्तचित्तवपुशक्ति-बले व्याप्नोति वेगतः । गुणिपुत्रास्ततः स्वर्ग - देशद्रव्याणि बालकाः ॥ ३१४॥ बालसंघादये याते, दुष्कृत्यं याति दूरतः । बालकान्कुरु वीराँस्त्वं, संगृहाण स्वतन्त्रताम् ॥३१५॥ उत्सर्गेणोदये धर्म - श्रापद्धर्मस्तु सङ्कटे । धर्मा उन्नतिकर्माणि जायते शर्म तत्कृतौ ॥३१६॥ नीतिज्ञानं च बालानां कर्मज्ञानं च शिक्षय । ज्ञानं च सर्वधर्माणां तेन सच्छक्तिरुद्भवेत् ॥३१७॥ यच्छक्तिस्तस्य राज्यं स्यात्साहाय्यं कुरु शिक्षणे । जैनधर्मस्य रक्षायां प्राणार्पणसुशिक्षणम् ॥ ३९८ ॥ न भयैः परतन्त्रः स्यात्क्रियाज्ञाने स्वतन्त्रता । प्राणान्ते न त्यजेन्त्यायं, स्वधर्मव्रतपालकः ॥ ३९९ ॥ दुष्टैः पराजितो न स्या - देवं बालो यतो भवेत् । धर्मराज्यं ततो विद्या, - सुखं सम्यक्स्वतन्त्रता ३२०
"
>
"
For Private And Personal Use Only