________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९० ) विचर तीर्थसेवाये, महासंघ विलोकय । संघयात्रां प्रकुर्वतु, सेवन्तां नोजनादितः ॥२९२ ॥ कुरु संग सुसाधूनां, तरन्तु भववारिधिम् । जैनधर्मिविनाशाय, परधर्मी यतेत चेत् ॥ २९३ ॥ धर्मयुद्धंतदा कार्य, शस्त्राद्यैर्बलतस्तथा । कुरु व्यर्थ नवा युद्धं, ऋद्धो न स्या अकारणम् २९४ एकीभूय सहख त्वं, शिक्षणानि लभस्व च । समर्पयत चाऽत्मानं, न मोहं संशयं कुरु ॥ २९५ ॥ ये संकीर्णविचारा हि, संघाऽधोगतिकारकाः । स्वातन्त्र्यस्य च हर्तारो-दूरं वसत तत्ततः ॥ २९६ ॥ नव्यजीवनवोढारो-विशाखाऽऽचारबुद्धयः । विश्वस्मिन्व्यापका ये च, तानाचरत हेजनाः॥२९॥ जीर्णाः संकीर्णतां प्राप्ता- मलीनाः शक्तिनाशकाः । अधाः पातकर्तार-स्तानाचारान्विमुञ्चत ॥२९८॥ शिक्षणं जैनधर्मस्य, खभन्तां प्रेमतो जनाः । याच संघेषु मे भक्ति-नीतिशक्तिं तनोति सा॥२९९॥ यत्र संघे ममाज्ञाऽस्ति, कल्याणं तत्र वर्तते । यत्र संघेऽस्ति मे गान-मनुभूतिस्तथा सुखम्॥३०॥ यत्संघानां मयि प्रेम, योगदमौ ततो ध्रुवम् । कल्याणकोत्सवो यत्र, तत्र दुःखं न जायते ॥३०१॥
For Private And Personal Use Only