________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यो द्रुह्येन्मम संघेभ्यो-दुर्गतायुद्भवेत्स च । गृहस्थत्यागिनां भक्तिः, संघशक्तिं तनोति च ॥२८२॥ जक्ता ये सर्ववर्णानां, नेदस्तत्र न कश्चन । संघो हि सर्ववर्णानां, महाँस्तं नज तन्मयः ॥२८३॥ भुक्त्यादिव्यवहाराणां, प्रेम्णा निभेदमाचर । सर्वसंघस्य यो मुख्यः, सम्मानं तस्य मत्तमम् ॥२८४|| गुणैरग्रेसरः कार्यो-मा मन्दं कुरु नायकम् । गुणवान्सर्वतः श्रेष्ठो-यश्च सर्वकलानिधिः ॥२८५ ॥ न पक्षाऽपक्षतां धेहि, तादृगग्रेसरं कुरु । नीति सम्मिल्य कुर्वन्तु, संघा ये देशखंडयोः॥२८६॥ व्यापारंव्यवहारं च, प्रवर्तयत शर्मदम् । मम भक्तौ न नेदोऽस्ति, सर्वे तुल्या हि मानवाः २०७ संधैक्यं विश्वलोकानां, तत्रैकः सत्तयाऽस्म्यहम् । विधास्यन्ति तथाऽप्स्यन्ति, ज्ञात्वा चित्ते शुनं वह २८८ सुखं स्यात्संघसेवानिः, सर्व दुःखं विनश्यति । सेवस्व जीवतो भक्त्या, गुणान्पश्य गुणान् वह २८९ न पश्य दोषलेशं च, मनःक्लेशानिवारय । कुर्वऽल्पं त्यज निन्दां च, गुणान्दृष्ट्वा गुणान्वह २९० गुणानुरागिमद्भक्त-आसक्तो मम कीर्तने । गुणाकरो महासंघो-मदाज्ञा यश्च रक्षति ॥ २९१ ॥
For Private And Personal Use Only