________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८७) स्वातन्त्र्यमस्ति संधैक्ये, विनैक्यं परतन्त्रता, महाजनस्य नीतिः सा, सैक्यरातिस्तु रक्षति ॥२६२॥ मताचारविचाराभ्यां, वर्तन्ते स्वेच्छया नराः । यस्य येच्छा स तां कुर्य्या-तत्र क्लेशं न वाऽऽचर २६३ वर्तन्तां स्वतया लोका-ममाऽभेदे शुचः कुतः। यत्कालेनैक्ययोग्यं य-च्छिरोदानेन तत्कुरु ॥२६॥ दुर्जेदाँस्त्यज मत्प्रेम्णा, संघेक्येन च मां भज। जीवनं स्याञ्च संधैक्ये, राज्यादिरपि रक्ष्यते ॥२६॥ रागतो द्वेषतो नाऽपि, पक्षं कुरुत कोविदाः !!। पक्षापदविनाशाय, चैक्यं कुरुत परिमताः! ॥२६६॥ एकोऽन्यस्य सहायः सन्, मद्भक्तः सच कथ्यते । हृदि मम परा भक्तिः, संघद्रोहं च नो कुरु ॥२६७ ॥ वर्द्धस्वैकोऽन्यसाहाय्यै-युट्यस्व पुष्टशत्रुभिः । कलौ स्वातन्त्र्यमैक्येन, चानैक्ये परतन्त्रता ॥२६॥ पुर्गुणानां च संहारो-जैनधर्मस्य सम्मतः । आत्मप्रीतिं च जैनेषु, कुरु संघस्य रक्षणम् ॥२६९॥ जीवानाऽऽत्मसमान्विद्धि, वृत्तिं नाशय भैदिकीम् । न्यायात् पश्चान्न गंतव्यं, भक्तानां खार्पणं कुरु २७० संघं भोजय भावेन, चानन्दं वह सेवया । साधर्मिषु परं प्रेम, दीनेषु परमा दया ॥ २७१ ॥
For Private And Personal Use Only