________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३२७ )
चक्षुषा दृश्यते यद्यत् पुद्रलाकृतिचेष्टितम् ॥ त्वत्तो भिन्नं विचार्यत्वं त्यज्यान्यपरिणामिताम् ||२४|| जगदांध्यकरींमायां किम्पाकफलसन्निभाम् ॥ आत्मनोऽन्यां विदित्वा त्वं चिदात्मानं विभावय ॥ ५५ ॥ सार्थक्यं जन्मनो विद्धि सूत्रशास्त्रेषु सम्मतम् ॥ आत्मतत्त्वं समाराध्यं त्रैकालिकमनश्वरम् ॥ ५६ ॥ अभिमुखी यदा स्यान्ते चेतना स्वयमात्मनः || तदा कर्माष्टकं जित्वा प्राप्नोषि परमं पदम् ।। २७ ।। स्वभावनियती कालस्तु कर्मेति कारणम् ॥ उद्यमः पञ्चमो ज्ञेयः एतैः कार्यस्य सिद्धता ॥ ५८ ॥ कथं कार्यस्य सिद्धिः स्यात्कालेनैकेन हेतुना || एकान्ततो हि मिथ्यात्वं विज्ञेयं सुविचक्षणैः ॥ ५९ ॥ पुरुषार्थः प्रकर्षेण कर्तव्यो विबुधैर्जनैः ॥ दुर्लभमुद्यमं विद्धि सम्प्रतिपञ्चमारके ॥ ६० ॥ भिनत्ति कर्मणो ग्रन्थिं छिनत्ति सर्वसंशयान् ॥ गुर्वाज्ञया यतेत स्वे सम्यग् धर्मे सुख दे || ६१ ॥ नोकोऽप्युद्यमः कार्ये एकान्तेनैव कारणम् ॥ यथायोग्यं हि विज्ञेयं कारणं दुःखवारणम् || ६२ ॥
For Private And Personal Use Only