________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(३२६) मदीयं कल्पितं यद्यद् मरीचिजलसनिभम् ॥ तत्तु मिथ्या विजानोहि बन्धो ममेति बुद्धितः ।। ४५ ।। अहं ममेति बुद्धिस्तु संसारोत्कर्षकारिणी ॥ उदासीनेन चित्तेन सज्जना धर्मसाधकाः ॥ ४६ ॥ शुद्धं स्वाभाविकं धर्ममात्मनः सेवते सुधीः ॥ कीर्त्यपकीर्तितः किन्ते त्वं भिन्नोऽसि ततः स्वयम् ॥४७॥ आत्मतत्त्वावबोधेन बालोऽपि वृद्धतां श्रयेत् ॥ आत्मनोऽज्ञानतो वृद्धो बालचापल्यमाश्रयेत् ॥ ४८ ।। भवद्धिप्रवर्द्धिन्या अविद्यायाः कुतः मुखम् ॥ अतोऽविद्यां परित्यज्य आत्मविद्यां समाश्रयेत् ।। ४ ।। आसन्नै विभिर्जेया तत्त्वविद्या तु दुर्लभा ॥ ततः सर्वप्रयत्नेन आत्मविद्यां समाश्रय ॥ ५० ॥ विद्यते नात्मनो नाम अनाम्यात्मा श्रुतिस्मृतः ॥ नृस्वर्गीत्यभिधानन्तु जानीहि व्यवहारतः ।। ५१ ।। अछेद्यः स्यात्कथं छेद्यः अछेद्यत्वमनंशतः ।। ज्ञेयत्वेनाभिभासन्ते अन्यद्रव्याणि चात्मनि ।। ५२ ।। ज्ञाताऽहं जगतां शश्वत् विद्यन्ते कारकाणि षट् ।। मयीति शुद्धरूपेण तेषां कर्ताऽस्मि निश्चयात् ॥ ५३ ।।
For Private And Personal Use Only