________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 3२५) परित्यक्तप्रमादा ये शुक्लं ध्यानं स्ववीर्यतः ॥ ध्यायन्ति वतिनः सम्यग् ज्ञातविश्वा भवन्ति ते ॥ ३६॥ एकाग्रचित्तवृत्त्या ये आत्मानं निर्विकल्पकम् ॥ ध्यायन्ति स्वस्थतां प्राप्य परमानन्दं भजन्ति ते ॥ ३७॥ महधैर्य समालम्ब्य शासनोद्योतकारकाः ॥ प्रवृत्ताः साध्यसिद्धयर्थ आत्मतत्त्वस्य सम्मुखाः ॥ ३८ ॥ शिष्या एतादृशा योग्याः धर्मकामार्थसाधकाः ॥ मोक्षतत्त्वं समाराध्य बुद्धसिद्धा भवन्ति ते ॥ ३९ ।। ऐहिकामुष्मिकं सौख्यं जानीहि क्षणिकं मुधा ॥ अनन्तं शाश्वतं सौख्यं भजध्वं सत्यमात्मनः ॥ ४० ॥ निश्चलं निर्मलं ज्ञेयमात्मतत्वं सुखप्रदम् ॥ यस्य शुद्धप्रबोधेन भवत्यर्हन् महीतले ॥ ४१ ॥ धमति यः सितं कर्म सिद्ध इति प्रकोर्तितः ॥ सिद्धत्वं नात्मनो भिन्नमात्मैव सिद्धतां श्रयेत् ॥ ४२ ।। अर्हतोऽभिन्न आत्मैव सोऽहं मोक्षमयः परः ॥ ज्ञानतोऽभिन्न आत्माऽहं भिन्नोऽभिन्नो विवक्षया ॥४३॥ रोगचिन्ताविनिर्मुक्तः अदेही देहवान् कथम् ॥ लिङ्गी नाऽहं कथं लिङ्गी चिन्त्यं चैतन्य चिन्तया ॥४४॥
For Private And Personal Use Only