________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२४) रागद्वेषविहन्तारः गाम्भीर्यादिगुणान्विताः ॥ पवित्राः शिष्यकाः सम्यगधर्ममाभ्यन्तरंगताः ।। २७ ।। मोक्षमार्गः कथं प्राप्यः धर्ममाभ्यन्तरं विना ॥ बाह्यधर्म परित्यज्य आन्तरं भज भक्तितः ॥ २८ ॥ स्याद्वादवादिभिः प्रोक्तमात्मतत्त्वं सुखावहम् ॥ नित्यानित्यं सदानन्दमरवण्डं निर्मलं सदा ।। २९ ॥ ज्योतिर्मयं गुणाधारं ज्ञानगम्यं निरक्षरम् ।। स्वच्छं शुद्धं जडातीतं लोकालोकप्रकाशकम् ॥ ३० ॥ जन्मातीतं जरातीतं देहातीतं च चिन्मयम् ।। निर्लेपं च निराकारं निस्संगं च महोमयम् ।। ३१ ।। अजं स्वयंभुवं व्यक्त्या अनाद्यन्तं च साक्षरम् ।। एतादृशं विजानाति आत्मतत्त्वं स योगिराट् ॥ ३२ ॥ शिष्यैर्विचक्षणैर्योग्यो धर्म आराध्य आत्मनः ।। असतः किं सदुत्पत्तिः चिन्तनीयं च साक्षरैः ॥ ३३ ॥ गतानुगतिको लोकः स्थूलबुद्धयावलोककः ॥ तस्य सङ्गं परित्यज्य आदेयः सत्पथो विदाम् ॥ ३४ ।। भावधर्मप्रशून्या ये द्रव्यधर्मप्रवर्तकाः ॥ आत्मोपयोगशून्यत्वात् कथं मोक्षं प्रयान्ति ते ॥ ३५ ॥
For Private And Personal Use Only