________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(323)
आत्मनः शिवसौख्या द्विधा चारित्रसङ्गतिः ॥ द्रव्यतो भावोक्ता साधनसाध्यतायुता ॥ १८ ॥ आत्मीयध्यानधाराभि धतकर्मरजः कणः ॥
आत्मनः स्वच्छतां लब्ध्वा भुङ्क्तेऽनन्तं सुखं सदा ॥ १९॥ आत्मैव परमात्मेति प्रज्ञाऽस्त्रवनिरोधिनी ॥ भावनीया मुमुक्षूणां प्रमादत्यागपूर्वकम् ॥ २० ॥ आत्मधर्मोपदेष्टारः सुत्रता मुनयो मताः ॥ तान्प्रणम्य महाभत्तया श्राव्यो धर्मः सुशिष्यकैः ॥ २१ ॥ सद्गुरुं शरणीकृत्य सुधियस्सुपथादराः ॥ मोक्षाभिलाषुकारिशष्याः गच्छन्ति परमं पदं ॥ २२ ॥ मोक्षावाप्तिः कदा किं स्यात् सद्गुरोर्ज्ञानमन्तरा || सनेत्रा नापि पश्यन्ति पदार्थान् भानुमन्तरा || || २३ ॥ श्रद्धावलम्बिन शिष्याः परोपकृतिसाधकाः ।। विनेयास्तत्त्वमार्गस्य ज्ञातारः प्रभवन्ति हि ॥ २४ ॥ जिनाज्ञा साधकास्स्वस्थाः सूक्ष्मबुद्धयावलोककाः || तत्वात्वस्य ज्ञानेन सत्यमार्गावलम्बिनः || २५ ॥
गुर्वाज्ञां मन्यमानाः स्युः शिष्याः सम्यग्द्यालवः || धर्ममार्ग वितन्वानः याता यास्यन्ति सद्गतिम् ॥ २६ ॥
For Private And Personal Use Only