________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२२) द्विविधाश्च पुनर्जेया मुक्ताऽमुक्तप्रभेदतः ॥ धाऽधर्मों नभःकालौ चत्वारोऽमूर्तकाः स्फुटम् ।। ९ ॥ मूर्तिमत्पुद्गलं द्रव्यमजीवाः पञ्च ते मताः॥ गुणानामाश्रयो द्रव्यं पर्यायाणां विशेषतः ॥ १०॥ द्रव्यषट्केन पूर्णोऽयं लोकः सूत्रे प्रकीर्तितः ।। लोकस्य त्रिविधा भेदा नभोऽलोके च शाश्वतम् ।। ११ ।। द्रव्यार्थिकं नयं श्रित्वा षड्द्रव्यं शाश्वतं मतम् ॥ पर्यायार्थिकतो ज्ञेयं तदनित्यं सदा बुधैः ॥ १२ ॥ गुणानां सहभावित्वं पर्यायाणां क्रमोद्भवः ॥ लक्षणं सर्ववित प्रोक्तं तत्त्वज्ञानाय नान्यथा ॥ १३ ॥ आदेयं जीवद्रव्यं स्वं ज्ञानचारित्रलक्षणम् ।। कालादिपञ्चकाद्भिन्नः सोऽहं चिन्मयचेतनः ॥ १४ ॥ पुद्गलस्कन्धरूपं यत् कर्मत्याज्यं विवेकिभिः॥ येन चेतनरूपोऽपि पुद्गल इव दृश्यते ॥ १५ ॥ अनाद्यनन्तजीवस्य शुद्धा स्वाभाविकी स्थितिः॥ कर्मणा परिणामित्वमात्मनो व्यवहारतः ॥ १६ ॥ स्वस्मिञ् शुद्धनयं श्रित्वा कल्प्यते परिणामिता ।। यदा कर्मविमुक्तः स्याज्जीवः सिद्धसमस्तदा ॥ १७
For Private And Personal Use Only