________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३५१ )
ॐ ह्रीं सिद्धेभ्यो नमः
मुनिराज श्री बुद्धिसागर विरचितं आत्मप्रदीपशतकं प्रारभ्यते ॥
हृदि ध्यात्वा गिरामीशं गुरुं तत्त्वार्थबोधकम् ।। आत्मप्रदीपनामानं ग्रंथं विस्तारयाम्यहम् || १ || कल्पद्रुतोऽधिको यस्य वा चिन्तामणिरत्नतः ।। धर्मकामार्थसाधीयान् प्रतापो मुक्तिदायकः ॥ २ ॥ यस्याशिपो जडः शिष्यः भूतले पण्डितो भवेत् ॥ गुरुः पार्श्वमणिर्ज्ञेयः सेव्यः स्तुत्यः सदा मुदा ॥ ३ ॥ स्तुत्या भक्त्या सदाराध्यः सद्गुरुर्देवसदृशः ॥ यस्य शुद्धोपदेशेन स्वात्मसिद्धिः प्रजायते ॥ ४ ॥ मिथ्यातत्त्वोपदेशेन कुगुरोर्लक्षणं स्फुटम् ॥ हालाहलं वरं पेयं कुगुरोः संगतिं त्यज ॥ ५ ॥ मनुष्यजन्म संप्राप्य दुर्लभं कामधेनुवत् ॥ सम्यग् धर्मोपदेष्टारः सेवनीया विशेषतः || ६ || जीवाजीव पदार्थों द्वौ भाषितौ सर्वज्ञानिभिः ॥ चेतनालक्षणं तत्र जीवस्य परिकीर्तितम् ॥ ७ ॥ जडात्मलक्षणोऽजीव: सर्वविद्भिः प्रकीर्तितः ॥ एकेन्द्रियादिभेदेन जीवाः पञ्चविधाः स्मृताः ॥ ८ ॥
For Private And Personal Use Only