________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२८) मुक्त्यर्थं त्यक्तलोकानां यतितव्यं हितैषिणाम् ।। शुद्धाऽसंख्यप्रदेशैश्च आत्मव्यक्तिर्यतो भवेत् ।। ६३ ॥ ज्ञात्वा प्रतिप्रदेशं च शक्त्यानन्त्यं सदा सदा ॥ पर्यायानन्ततामात्मा ज्ञेयो ध्येयश्चयोगिभिः ॥ ६४ ॥ एकोऽसंख्यप्रदेशानामात्मैका चोपयोगिता ॥ अन्यथा ज्ञानभेदेन आत्माऽसंख्यत्वमापतेत् ॥ ६५ ॥ प्रदेशान्निर्मलानन्दान ज्योतीरूपान्सनातनान् ॥ शुद्धात्मनः प्रजानीहि सुखं यत्रानुभूयते ॥ ६६ ॥ आत्माऽस्पर्यः कथं स्पर्यः अग्राह्यो ग्राह्यतां कथम् ।। प्रामोतीति विचार्यः सः चेतनो योगिभिर्धिया ॥६॥ गन्धातीतः स आत्माऽपि गन्धं जानाति ज्ञानतः ॥ रसातीतस्स आत्माऽपि रसं जानाति ज्ञानतः ॥ ६८ ॥ स्पर्शातीतस्स आत्माऽपि स्पर्श जानाति ज्ञानतः ॥ वर्णातीतस्स आत्माऽपि वर्ण जानाति ज्ञानतः ॥ ६ ॥ पुण्यातीतस्स आत्माऽपि पुण्यं जानाति ज्ञानतः ।। पापातीतस्स आत्माऽपि पापं जानाति ज्ञानतः॥ ७० ॥ अन्यान ज्ञानेन जानाति आत्मा सर्वार्थसाधकः ॥ अन्यः कोऽपि न जानाति आत्मानमिति निश्चयः ॥७॥
For Private And Personal Use Only